कृषिः गतिविधिरूपेण अस्माकं समग्रगृहोत्पादस्य प्रायः षष्ठमांशत्वेन (1/6 भागः) योगदानं करोति। तथा अस्माकं जनसंख्यायाः विशालभागः स्वस्याजीविकायै कृषौ निर्भरः। क्षीयमाणं मृदास्वास्थ्यं अतीव चिन्तनीयं जातम्, एतस्मात् कारणात् कृषिसंसाधनानाम् अधिकतमः उपयोगः न भवितुं पार्यते। उर्वरकानाम् असन्तुलितोपयोगः जैविकतत्वानां न्यूनप्रयोगः गतवर्षेषु च क्षीयमाणपोषकतत्त्वानां प्रतिस्थापनाऽभावात् फलत्वेन देशस्य केषुचित् भागेषु पोषकतत्त्वानां न्यूनता जाता मृत्तिकायाः उर्वरता अपि क्षीणा जाता। मृदास्वास्थ्यसन्दर्भे नियमितान्तराले अस्य आकलनस्यावश्यकता वर्तते। तस्मात् मृत्तिकायां पूर्वतः विद्यामनपोषकतत्त्वानां लाभं स्वीकुर्वन् कृषकः अपेक्षितपोषकतत्वानां प्रयोगः सुनिश्चितीकुर्यात्।
सर्वकारेण एतादृशी योजना आरब्धा यत् येन सर्वेभ्यः कृषकेभ्यः मृदास्वास्थ्यपत्रं मिशनरूपेण प्रापयिष्यते। पत्रेषु कृषिक्षेत्राय कृष्यपेक्षितपोषणस्य / उर्वरकानां विषये कृषिक्रमेण अनुरोधः अनुशंसा च करिष्यते तस्मात् कृषकाः उपयुक्तादानोपयोगं कुर्वन्तः उत्पादकतायां सुधारं कुर्युः। कृषकेभ्यः मृदास्वास्थ्यपत्रं प्रदातुं मृदापरीक्षणप्रयोगशालाः स्थापयितुं केन्द्रियसर्वकारः राज्यसर्वकाराय सहायतां प्रापयति। राज्यसर्वकाराः मृदास्वास्थ्यपत्राणि प्रदातुं ग्रामस्य औसतमृदास्वास्थ्यनिर्धारणाय नवीनपद्धतीः व्यवहरन्ति, तत्र मृदापरीक्षणार्थं कृषिविद्यार्थीनाम् असर्वकारीयसंगठनानां निजक्षेत्रस्य च सेवायाः आदानं सम्मिलितमस्ति। मृदास्वास्थ्यपत्रस्य प्रयोगः मृत्तिकायां स्थितस्वास्थस्य आकलनाय भवति। किञ्चित्कालं प्रयोगानन्तरं अनेनैव पत्रेण मृदास्वास्थ्ये परिवर्तनस्य आकलनमपि क्रियते यतोहि भूमिप्रबन्धनेन अस्याः स्वास्थ्यं प्रभावितं भवति। मृदास्वास्थ्यपत्रे मृदास्वास्थ्यसङ्केतकानां तत्सम्बद्धशब्दावल्याश्च विस्तृतं विवरणं भवति। एते सङ्केतकाः कृषकानां व्यावहारिकानुभव-स्थानीयप्राकृतिकसंसाधनानां ज्ञाने आधारिताः वर्तन्ते। अस्मिन् पत्रके एतादृशानां मृदास्वास्थ्यसङ्केतकानां विवरणं भवति, येषाम् आकलनं तकनीकिं विना उत प्रयोगशाला-उपकरणानि विनैव कर्तुं शक्यते।
सामान्यतः तमिलनाडु-गुजरात-आन्ध्रप्रदेश-हरियाणाप्रभृतिराज्यानि एतेषां पत्रकाणां वितरणं सफलतया कुर्वन्तः सन्ति परन्तु केन्द्रसर्वकारस्य इयं योजना वर्तते यत् एतानि पत्रकाणि समग्रे देशे वितरणीयानि भवेयुः। सांख्यिक्यानुसारं मार्च2012पर्यन्तं कृषकेभ्यः 48कोटितः अधिकानि मृदास्वास्थ्यपत्राणि वितरितानि तस्मात् तेषां क्षेत्रेषु पोषकतत्त्वानां न्यूनतायाः परिज्ञानं तेभ्यः प्रदेयम्। तमिलनाडुः 2006वर्षतः एव मृदास्वास्थ्यपत्रकं वितरन् अस्ति। अस्मिन् राज्ये त्रिंशद् (30)मृदाप्रयोगशालाः (एसटीएल) अष्टादश (18) गतिमानमृदापरीक्षणप्रयोगशालाः सन्ति।
कुडूमियानमलई-पुडूकोट्टईमण्डलयोः स्थितप्रयोगशाला केन्द्रीयप्रयोगशालात्वेन घोषिता। इयं प्रयोगशाला च सर्वासु प्रयोगशालासु क्रियमाणानां विश्लेषणानां गुणवत्तायाः निरीक्षणं करोति। तमिलनाडु-कृषि-विश्वविद्यालयेन डेसिफर्-इत्यभिधानं साफ्टवेयर् निर्मितं वर्तते। यस्य प्रयोगः मृदाप्रयोगशाला (एसटीएल) मृदास्वास्थ्यपत्रस्य अन्तर्जालीय-वितरणार्थं करोति। उर्वरकोपयोगसम्बन्धि-अनुशंसायै अपि इदं साफ्टवेयर् प्रयुज्यते।
स्रोतः- पत्रसूचनाकार्यालयः, के.एम.रविन्द्रन्, एम.श्रीविद्या
Last Modified : 12/18/2019