भारतदेशे तन्नागरिकेषु चलवाणी विविधई-शासनसेवानां वितरकप्रणालीत्वेन उद्भूता।इयं उपभोक्तृभ्यः स्वीकृतौ सरलतां, साधारणं इन्टरफेस्-एप्स्-अधोभारणे(डाउनलोड) स्वतन्त्रतां, सरलप्रयोगावसरं च प्रयच्छति। अद्यापि यद्यपि प्रौद्योगिकदृशा नागरिकेषु एप्स्-प्रसारणे अनेके प्रश्नाः(अनेकाः समस्याः) विद्यन्ते, विशेषतया ग्रामीणक्षेत्रेषु चलवाणी-अनुप्रयोगाणां सम्भावितेषु परिप्राप्तौ प्रबलतमा समस्या वर्तते। तस्मादेव तथ्यमिदवधार्य तत्समाधानाय सर्वकारेण अनेके प्रयासाः विहिताः। तत्र चलवाणीएप्लीकेशन्-विकासाय, जनेषु च तस्य आपूर्तये तत्सम्बन्धिविविधविभागेभ्यः संस्थाभ्यश्च इलेक्ट्रानिक्-सूचना-प्रौद्योगिकीविभागेन अनेकाः योजनाः उद्घोषिताः। विभागनिर्धारितमुख्योपायाः सन्ति
प्रारूपानुकूलं समयबद्धरीत्या उपरिनिर्दिष्टसेवाविकासाय तत्सहायकप्रारूपं विकासयन् च तत्कार्यान्वितिं निश्चयन् सर्वकारेण चलोपकरणैः सार्वजनिकसेवाः प्रापयितुं मोबाइल-सर्विस-डिलिवरी-गेटवे (MSDG) इत्यस्य विकासः कृतः।
चलवाणीसेवा एकीकृतमंञ्चं प्रददाति। येन चलोपकरणेषु सार्वजनिकसूचनावितरणं सर्वकारीसेवावितरणं च एसएमएस-यूएसएसडी-आईवीआरएस-सीबीएस-एलबीएस-चलअनुप्रयोगैश्च विधेयः।
चलवाणी-उपभोक्तृणां वर्धमानां संख्यां वीक्ष्य राष्ट्रिय-ई-शासनयोजनायां चलवाण्याः उपयोगितां च विमृशन् इदमनिवार्यं यत् प्रतिनागरिकाय सर्वकारीयसेवाः चलवाण्या सुनिश्चिताः स्युः। नागरिकसम्पन्नवर्गग्रामीणवञ्चितवर्गयोः व्याप्तं अन्तरं परिसमापयितुं अयं प्रबलतमः तकनीकिः।
ई-शासनएक्सचेंज् इत्यस्यान्तर्गतं विकसितः एनएसडीजी (राष्ट्रियई-शासनसेवाडिलिवरीगेटवे) चलवाण्या जनेषु सर्वकारीयसेवाप्रापणाय एसएसडीजी-(स्टेट ई-गवर्नेंस सर्विसेज डिलिवरी गेटवे)-डोमेनडोमेनगेटवे(यथा- पासपोर्टगेटवे, MCA21 गेटवे) इत्येतदर्थं सेवाप्रदातृभ्यश्च बहूपयोगी भवितुं शक्यते।
पृथगाधारभूतपरिकल्पनायां काश्चन आवश्यकताः निर्दिश्यन्ते-
चलवाण्याधारिताः सेवाः
सेवाप्रदाता |
उपलब्धसेवा |
किसानकॉलसेन्टर् |
कृषिसम्बन्धिप्रश्नोत्तराणि |
कृषिविभागः मध्यप्रदेशसर्वकारः |
कृषिपुष्पकृषिदुग्धमत्स्यपशुरोगसम्बन्धिप्रश्नानां समाधानम् |
कृषिविभागः,हरियाणासर्वकारः |
कृषकाणां कृषिसम्बन्धिसमस्याः |
ग्रामीणविकासमन्त्रालयः भारतसर्वकारः |
राष्ट्रियग्रामीणनिश्चितोद्यमयोजनासम्बन्धिपरिवादः सूचना वा |
केन्द्रीयान्वेषणब्यूरो, हिमाचलप्रदेशः |
भ्रष्टाधिकारिणां विरुद्धः परिवादः |
केन्द्रीयान्वेषणब्यूरो, आन्ध्रप्रदेशः |
केन्द्रीयसर्वकार-राष्ट्रियकृतवित्तकोष-सार्वजनिकक्षेत्रनिगमान्तर्गतोत्कोचग्राहककर्मचारिणां विरुद्धः परिवादः |
सामाजिककल्याणश्रमकल्याणविभागः, राष्ट्रियराजधानीक्षेत्रसर्वकारः |
बालभिक्षुकाणां रक्षा |
भारतीयरेल् |
रेलवेकर्मचारिणः उत्कोच-भ्रष्टाचारसम्बन्धिपरिवादः |
भारतीयरेल् |
पीएनआर-स्थितिनिरीक्षणम्, वर्तमानरेलस्थितिः, उपलब्धसुविधाः, भाटकसम्बन्धिप्रश्नाःच |
जानकारी, बिहारसर्वकारः |
सूचनायाः अधिकारः, प्रथमद्वितीयनिवेदनं तत्सम्बन्धिसूचनाः परिसंवादो वा |
केन्द्रीयमाध्यमिकशिक्षापरिषद् |
10-12तमकक्षयोः अक्षमछात्राणां कृते परीक्षासम्बन्धिप्रश्नाः |
केन्द्रीयमाध्यमिकशिक्षापरिषत् |
10-12कक्षयोः परिणामः |
राज्यपूर्वविश्वविद्यालयविभागः,कर्नाटकसर्वकारः |
12 तमायाः कक्षायाः छात्राणां अभिभावकेभ्यः परीक्षासम्बन्धिपरामर्शः |
रेलवेभर्तीबोर्ड्,चेन्नई |
आवेदनपत्रस्य स्थितिः, विज्ञापने प्रदत्तपदेभ्य योग्यता परीक्षापरिणामश्च |
एमरजेन्सी मैनेजमेन्ट रीसर्च इन्स्टीट्यूट्, हैदराबादः |
रोगिभ्यः चिकित्सकीयसहायता |
स्वास्थ्यविभागः |
रोगिभ्यः ऐम्बुलेन्स् स्वास्थ्यसहयोगश्च |
भारतीयसर्वोच्चन्यायालयः |
याचिकाकर्ता-अधिवक्तृसम्बन्धिसूचना, सर्वोच्चन्यायालये लम्बितप्रकराणां चलवाण्या सूचना आप्तुं शक्यते। |
दिल्ली राज्यविधिकसेवाप्राधिकरणम् |
न्यायिकपरामर्शः सहायता च |
केरलराज्यविधिकसेवाप्राधिकरणम् |
न्यायिकपरामर्शः सहायता च |
वृहन्मुम्बईनगरनिगमः |
विंशतिसहस्रराशिपर्यन्तं सम्पत्तिकरस्य जलकरस्य च निस्तारः |
डा.एसएमएस, कोझिकोडः,केरलम् |
दिवसे कस्मिंश्चदपि समये समीपस्थ रुग्णालय-औषधालय-स्वास्थ्यकेन्द्रसम्बन्धिसूचनाः। प्रणालीयं मण्डले विशेषज्ञचिकित्सकानां सूची-रक्तकोश-डायग्नॉस्टिककेन्द्र- निजरुग्णालय-विशेषज्ञकेन्द्र-ऑपरेशन्- वेंटिलेटरप्रभृतिसूचनाः प्रददाति। |
गुडगाँव पुलिस, हरियाणासर्वकारः |
भये प्राणभये च पुलिससहायता |
जनसंख्यास्थिरताकोषः |
प्रजननस्वास्थ्य-परिवारनियोजन-बालस्वास्थ्यविषयेषु हिन्दी-आङ्ग्लभाषायां परामर्शसहायता उद्बोधश्च। |
Last Modified : 1/26/2020