অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

बेटी बचाओ बेटी पढाओ-इति योजना

बेटी बचाओ बेटी पढाओ-इति योजना

पृष्ठभूमिः

0-6वर्षीयवर्गे 1000बालकेषु परिभाषितबाललिङ्गानुपाते प्रतिकन्यासंख्यायां न्यूनतावृत्तिः 1961ईसवीयाब्दात् दृश्यमाना वर्तते। 1991तमाब्दस्य 945संख्यायाः 2001 अब्दे 927पर्यन्तं पुनश्च 2011तमे वर्षे 918पर्यन्तं प्राप्ते सति सङ्कटं मत्वा तस्योपचाराय यत्नाः आरब्धाः। लिङ्गानुपाते न्यूनता साक्षात् महिलानां समाजे स्थानं प्रति संकेतयति यत् जन्मपूर्वलिङ्गभेदभावं तच्चयनमधिकृत्य च पक्षपातं प्रति सूचयति। चिकित्सकीयसुविधानां सरलोपलब्धता नवतकनीकिश्च जन्मपूर्वबालकस्य चयनं सम्भाव्य निम्नलिङ्गानुपातं न्यूनीकरणे आलोचनात्मकरीत्या प्रकाशिते स्तः।

महिला-बालविकासमन्त्रालय-स्वास्थ्यमन्त्रालय-परिवारकल्याणमन्त्रालय-मानवसंसाधनविकासमन्त्रालयानां संयुक्तप्रारम्भेण समन्वितेषु अभिसरितेषु च प्रयासेषु बालिकानां संरक्षणाय सशक्तीकरणाय च ‘बेटी बचाओ बेटी पढाओ’ (बीबीबीपी) इत्यस्या योजनायाः आरम्भः कृतः सा च निम्नलिङ्गानुपातिकशतमण्डलेषु प्रवर्तिता।

समग्रलक्ष्यम्

बालिकायाः प्रशंसां कुर्वन्तु तां शिक्षायै सक्षमीकुर्वन्तु।

मण्डलानां परिज्ञानम्

सर्वाणि राज्यानि संघशासितक्षेत्राणि च संग्रह्य 2011 ईसवीयाब्दस्य जनगणनानुसारं निम्नबाललिङ्गानुपातिकाधारे प्रत्येकस्मिन् राज्ये न्यूनातिन्यूनं 100मण्डलानि पायलटमण्डलत्वेन चितानि। मण्डलचयने त्रयः मानदण्डाः एवंप्रकारेण वर्तन्ते-

  • राष्ट्रिय-औसततः न्यूनं मण्डलम् (87 मण्डलानि, 23 राज्यानि)
  • राष्ट्रिय-औसततुल्यं न्यूनताभिमुखम् ( 8मण्डलानि, 8राज्यानि)
  • राष्ट्रिय-औसततः लिङ्गानुपातस्य वर्धमानप्रवृत्तिकानां राज्यानां मण्डलानां चयनम् (5मण्डलानि 5 राज्यानि) यैः स्वलिङ्गानुपातिकस्तरः स्थिरीकृतः। येषामनुभवेभ्यः अधिगत्य अन्यस्थानेषु तदनुकरणं च।

उद्देश्यम्

  • पक्षपातपूर्णलिङ्गचयनप्रक्रियायाः उन्मूलनम्।
  • बालिकानाम् अस्तित्त्वं सुरक्षायाः सुनिश्चितीकरणम्।
  • बालिकानां शिक्षायाः सुनिश्चितीकरणम्।

रणनीतयः

  • बालिकायाः शिक्षायाश्च प्रोत्साहनार्थं सामाजिकान्दोलनाय समानमूल्यानां वर्धनाय च जागरुकताभियानस्य कार्यान्वयनम्।
  • अस्मिन् वादे सार्वजनिकविमर्शस्य व्यवस्था तस्मिन् संशोधनं च सुशासनस्य मानकं भविष्यति। निम्नलिङ्गानुपातिकमण्डलानि अभिज्ञाय ध्यानपूर्वकं गहन-एकीकृतकार्यवाही च।
  • सामाजिकपरिवर्तनाय महत्वपूर्णस्रोतत्वेन स्थानीयमहिलासंगठनानां युवकानां सहभागितां स्वीकृत्य पंचायतीराज्यसंस्था-स्थानीयनिकायसंस्था-आधारस्तरसम्बद्धकार्यकर्तृन् च प्रेरयन् प्रशिक्षयन् सामाजिकपरिवर्तनस्य प्रेरकभूमिकायां अभिकल्पनम्।
  • मण्डलसंस्थागतसमायोजनस्य सक्षमीकरणम्- क्षेत्रीयं अन्तरं च- आधारभूतस्तरे च अन्तरं/ब्लाक्सङ्घटकः।

बेटी बचाओ बेटी पढाओ - इत्यस्मिन् जनसंचार-अभियानम्

देशव्यापि-अभियानं- ‘बेटी बचाओ बेटी पढाओ’- इत्यमुं आरभ्य अयं कार्यक्रमः प्रारप्स्यते यस्मिन् बालिकायाः जन्मः उत्सवत्वेन आयोज्य तां शिक्षाग्रहणाय समर्थीकर्तुं प्रयासः विधास्यन्ते। अभियानस्योद्देश्यं बालिकानां जन्मः पोषणं शिक्षा च भेदभावं विना स्यात् समानाधिकारैस्सह ताः देशस्य सशक्ताः नागरिकाः भवेयुः।

राज्यानां केन्द्रशासितप्रदेशानां च निम्नलिङ्गानुपातिकेषु शतसङ्कटग्रस्तेषु मण्डलेषु बहुक्षेत्रीयारम्भः

महिला-बालविकासमन्त्रालय-मानवसंसाधनविकासमन्त्रालययोः परामर्शेन बहुक्षेत्रीयकार्याणि निर्मितानि। बहुक्षेत्रीयकार्याणि संज्ञानमधिगत्य सन्दर्भितक्षेत्र-राज्य-मण्डल-तालुकादिषु निम्नलिङ्गानुपात-परिष्काराय परिणामप्रेक्षितानां संकेतकानां च युगपदुपयोगः करिष्यते। परियोजनाकार्यान्वयनं केन्द्रस्तरे महिला-बालविकासमन्त्रालयः अस्याः योजनायाः बजटीयनियन्त्रण-प्रशासनाय उत्तदायी वर्तते। राज्यस्तरे च सचिव-महिला-बालविकासविभागः समग्रदिशा-प्रशासनाय उत्तरदायी भविष्यति। प्रस्तावितयोजनायाः संरचना निम्नतया दृश्यते-

राष्ट्रियस्तरे

महिला-बालकल्याणविभागस्य सचिवस्य अध्यक्षतायां स्वास्थ्यपरिवारकल्याणमन्त्रालयमानवसंसाधनविकासमन्त्रालय-राष्ट्रियविधिकसेवाप्राधिकरण-विकलाङ्गतासम्बन्धिविभाग-सूचनाप्रसारणमन्त्रालय-लिङ्गविशेषज्ञ-नागरिकसंस्थानां प्रतिनिधीः समाहृत्य बेटी बचाओ बेटी पढाओ इत्यस्मै एकस्य कार्यदलस्य गठनं मार्गदर्शन-समर्थन-प्रशिक्षणविषयसामग्री-राज्ययोजना-निरीक्षणानां प्रभाविकार्यान्वयनाय कृतम्।

मण्डलस्तरे

मण्डलस्तरे बेटी बचाओ बेटी पढाओ इत्यस्य कार्यक्रमस्य कार्यान्वयन-निरीक्षण-पर्यवेक्षणेषु उत्तमसमायोजनाय माण्डलिकस्वास्थ्यपरिवारकल्याण-पीसी-पीएनडीटीइत्स्यमै नियुक्तम् उचितं प्राधिकरणं शिक्षा-पंचायतीराज्य-ग्रामीणविभागैस्सह मण्डलस्तरीयवैधानिकप्राधिकरणस्य प्रतिनिधि-विकलाङ्गतासम्बन्धिवादानां प्रतिनिधीः समाहृत्य मण्डलीयकार्यदलस्य (डीटीएफ) गठनं करिष्यते।

ब्लॉकस्तरे

ब्लॉकस्तरे कार्यक्रमस्य कार्यान्वयन-निरीक्षण-पर्यवेक्षणे साहाय्यं प्रदातुं उपश्रेणिकन्यायाधीशस्य/उपसंभागीयाधिकारिणः/खण्डविकासाधिकारिणः अध्यक्षतायां एकब्लॉकस्तरीयनिरीक्षणसमितिः (इदं संबन्धितराज्यसर्वकारेण निर्धार्यते) स्थापयिष्यते। स्वस्य न्यायिकक्षेत्रे परिगणितपंचायतसमितेः वार्ड-इत्यस्य कृते सन्दर्भितपंचायतसमितिः/वार्डसमितिः (यथा सम्बन्धिराज्यसर्वकारेण निश्चितीकृतम्) कार्यान्वयन-निरीक्षण-पर्यवेक्षणैस्सह सर्वविधिगतिविधीनां कृते उत्तरदायी भविष्यति।

ग्रामपंचायतस्तरे/वार्ड इत्यस्मिन् स्तरे

ग्रामस्वास्थ्य-स्वच्छता-पोषणसमितिः ग्रामस्तरे योजनायाः क्रियान्वयन-निरीक्षणाय अनुशंसनं समर्थनं च करिष्यति। अनुसूचितनगरेषु नगरीयक्षेत्रेषु योजना नगरनिगमानां समग्रमार्गदर्शने नेतृत्वे च प्रवर्तयिष्यते।

सामाजिकमीडिया

बालानां विनिपतति लिङ्गानुपाते प्रासङ्गिकवीडियो-इत्यनेन सह बीबीबीपी इत्यत्र एकं यूट्यूबशृङ्खला आरब्धा। जागरुकतायाः संचाराय सरलोपयोगाय प्रसाराय च निरन्तरं वीडियो अपलोड् कृतम् अनेन माध्यमेन च प्रतिभागः अपि कृतः। अनेन सह बेटी बचाओ बेटी पढाओ इत्यनेन राष्ट्रं योजयितुं जनानां प्रतिभागिता-समर्थनप्राप्त्यै My Gov पोर्टलमाध्मेन जनानां सम्बद्धीकरणं प्रचलन्नस्ति।

स्रोतः- बेटी बचाओ बेटी पढाओ महिला-बालकल्याणमन्त्रालयः भारतसर्वकारः।

Last Modified : 10/31/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate